मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३०, ऋक् ११

संहिता

ए॒तद॑स्या॒ अनः॑ शये॒ सुस॑म्पिष्टं॒ विपा॒श्या ।
स॒सार॑ सीं परा॒वतः॑ ॥

पदपाठः

ए॒तत् । अ॒स्याः॒ । अनः॑ । श॒ये॒ । सुऽस॑म्पिष्टम् । विऽपा॑शि । आ ।
स॒सार॑ । सी॒म् । प॒रा॒ऽवतः॑ ॥

सायणभाष्यम्

सुसंपिष्टमिन्द्रेण सुष्ठु सञ्चूर्णितमस्या उषसः सम्बन्ध्येतदनः शकटं विपाशि । विपाडाख्या नदी । तस्यां तत्तीर आ शये । आ समन्ताच्छेते । अशेत । सीमेयमुषोदेवता शकटे भग्ने सति परावतो दूरदेशात्ससार । अपससार ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१