मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३१, ऋक् ३

संहिता

अ॒भी षु ण॒ः सखी॑नामवि॒ता ज॑रितॄ॒णाम् ।
श॒तं भ॑वास्यू॒तिभि॑ः ॥

पदपाठः

अ॒भि । सु । नः॒ । सखी॑नाम् । अ॒वि॒ता । ज॒रि॒तॄ॒णाम् ।
श॒तम् । भ॒वा॒सि॒ । ऊ॒तिऽभिः॑ ॥

सायणभाष्यम्

हे इन्द्र त्वं सखीनां समानख्यातीनां जरितॄणां स्तोतॄणामिविता रक्षिता त्वं शतं शतेन बह्वीभिरूतिभी रक्षाभिः सह नोऽस्माकं सु सुष्ठ्वभि भवासि । अभिमुखो भव ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४