मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ५५, ऋक् ८

संहिता

अ॒ग्निरी॑शे वस॒व्य॑स्या॒ग्निर्म॒हः सौभ॑गस्य ।
तान्य॒स्मभ्यं॑ रासते ॥

पदपाठः

अ॒ग्निः । ई॒शे॒ । व॒स॒व्य॑स्य । अ॒ग्निः । म॒हः । सौभ॑गस्य ।
तानि॑ । अ॒स्मभ्य॑म् । रा॒स॒ते॒ ॥

सायणभाष्यम्

अग्निर्देवो वसव्यस्य धनसमूहस्येशे । ईष्टे दातुम् । तथाग्निर्महो महतः सौभगस्य सुभगत्वस्यापीशे । अतस्तानि धनानि सौभाग्यं चास्मभ्यं रासते । ददातु ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः