मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ६, ऋक् १

संहिता

अ॒ग्निं तं म॑न्ये॒ यो वसु॒रस्तं॒ यं यन्ति॑ धे॒नवः॑ ।
अस्त॒मर्व॑न्त आ॒शवोऽस्तं॒ नित्या॑सो वा॒जिन॒ इषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥

पदपाठः

अ॒ग्निम् । तम् । म॒न्ये॒ । यः । वसुः॑ । अस्त॑म् । यम् । यन्ति॑ । धे॒नवः॑ ।
अस्त॑म् । अर्व॑न्तः । आ॒शवः॑ । अस्त॑म् । नित्या॑सः । वा॒जिनः॑ । इष॑म् । स्तो॒तृऽभ्यः॑ । आ । भ॒र॒ ॥

सायणभाष्यम्

अग्निं तं मन्य इति दशर्चं षष्ठं सूक्तं वसुश्रुतस्यार्षमाग्नेयं पाङ्ग्क्तम् । अग्निं तं दश पाङ्ग्क्तमित्यनुक्रमणिका । प्रातरनुवाक आग्नेये क्रतौ पाङ्के छन्दस्याश्विनशस्त्रे चेदं सूक्तम् । अग्निं तं मन्य इति पाङ्क्तम् । आ. ४-१३ । इति हि सूत्रितं ॥ आश्वमेधिके मध्यमेऽहनिदमेवाज्यशस्त्रम् । सुत्रितं च । अग्निं तं मन्य इत्याज्यं तस्यैकाहिकमुपरिष्तात् । आ. १०-१० । इति । आद्य आभिप्लविकेषूक्थ्येषु मैत्रावरुणस्यानुरूपस्तृचः । सुत्रितं च । आग्निं तं मन्ये योवसुराग्ने स्थूरं रयिं भर । आ. ७-८ । इति ॥

तमग्निं मन्ये । स्त्ॐइ । योऽग्निर्वसुर्वासकः । यमस्तं सर्वेषां गृहवदाश्रयभूतं धेनवो यन्ति । गच्छन्ति प्रीणयितुम् । अस्तमुक्तलक्शणमर्वन्तोऽरणवन्तोऽश्वा आशवः शीघ्रगामिनो यन्ति । तथा नित्यासो नित्यप्रवृत्तयो वाजिनो हविर्लक्शणान्नवन्तो यजमाना यमस्तं यन्ति तं मन्ये । इषमन्नं स्तोतृभ्योऽस्मभ्यमा भराग्ने ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२