मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ६, ऋक् २

संहिता

सो अ॒ग्निर्यो वसु॑र्गृ॒णे सं यमा॒यन्ति॑ धे॒नवः॑ ।
समर्व॑न्तो रघु॒द्रुव॒ः सं सु॑जा॒तासः॑ सू॒रय॒ इषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥

पदपाठः

सः । अ॒ग्निः । यः । वसुः॑ । गृ॒णे । सम् । यम् । आ॒ऽयन्ति॑ । धे॒नवः॑ ।
सम् । अर्व॑न्तः । र॒घु॒ऽद्रुवः॑ । सम् । सु॒ऽजा॒तासः॑ । सू॒रय । इष॑म् । स्तो॒तृऽभ्यः॑ । आ । भ॒र॒ ॥

सायणभाष्यम्

सोग्निः स खल्वग्निर्यो वसुर्वासको गृणे । स्तूयते । यं धेनवः समायन्ति होमार्थम् । अर्वन्तोऽश्वा रघुद्रुवो लघुगमनाः समायन्ति । सुजातासः सूरयो मेधाविनश्च समायन्ति स खल्वग्निरिति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२