मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ९, ऋक् ५

संहिता

अध॑ स्म॒ यस्या॒र्चयः॑ स॒म्यक्सं॒यन्ति॑ धू॒मिनः॑ ।
यदी॒मह॑ त्रि॒तो दि॒व्युप॒ ध्माते॑व॒ धम॑ति॒ शिशी॑ते ध्मा॒तरी॑ यथा ॥

पदपाठः

अध॑ । स्म॒ । यस्य॑ । अ॒र्चयः॑ । स॒म्यक् । स॒म्ऽयन्ति॑ । धू॒मिनः॑ ।
यत् । ई॒म् । अह॑ । त्रि॒तः । दि॒वि । उप॑ । ध्माता॑ऽइव । धम॑ति । शिशी॑ते । ध्मा॒तरि॑ । य॒था॒ ॥

सायणभाष्यम्

अधस्म अपिच धूमिनः धूमवतोयस्याग्नेरर्चयः अर्चींषि सम्यक् शोभनं संयन्ति सर्वतः प्राप्नुवन्ति त्रितः त्रिषुस्थानेषु ततोव्याप्तः त्रीणिस्थानानिवाअतीत्य दिवि अन्तरिक्षे यत् यदा ईमयंआत्मानमुपधमति उपवर्धयति तदा ज्वालाः सर्वतोनिर्गच्छन्तीत्यर्थः कथमिव ध्मातेव कर्मारोयथाभस्त्रादिभिरग्निंसंवर्धयतितद्वत् स्वात्मानंवर्धयतीत्यर्थः किंच ध्मातरियथायथाध्मातृसमीपेविद्यमानोग्निः तेनध्मायमानः आत्मानंशिशीते तीक्ष्णीकरोति तद्वत् स्वयमेव स्वात्मानंतीक्ष्णीकरोतीत्यर्थः अहेतिपादपूरणः ॥ यन्ति इण्गतौ यच्छब्दयोगान्निघाताभावः । धमति ध्माशब्दाग्निसंयोगयोः पाघ्रादिनाधमादेशः पूर्ववन्निघाताभावः । शिशीते शोतनूकरणे व्यत्ययेनात्मनेपदी श्लावित्यनुवर्तमाने बहुलंछन्दसीतिविकरणस्यश्लुः आदेचउपदेशेशितीत्यात्वम् श्लावितिद्विर्वचनं बहुलंछन्दसीत्यभ्यासस्येत्वं उभेअभ्यस्तमित्यभ्यस्तसंज्ञायां आतईहल्यघोरितीत्वं तिङउत्तरत्वान्निघाताभावः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः