मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् १७, ऋक् ५

संहिता

नू न॒ इद्धि वार्य॑मा॒सा स॑चन्त सू॒रयः॑ ।
ऊर्जो॑ नपाद॒भिष्ट॑ये पा॒हि श॒ग्धि स्व॒स्तय॑ उ॒तैधि॑ पृ॒त्सु नो॑ वृ॒धे ॥

पदपाठः

नु । नः॒ । इत् । हि । वार्य॑म् । आ॒सा । स॒च॒न्त॒ । सू॒रयः॑ ।
ऊर्जः॑ । न॒पा॒त् । अ॒भिष्ट॑ये । पा॒हि । श॒ग्धि । स्व॒स्तये॑ । उ॒त । ए॒धि॒ । पृ॒त्ऽसु । नः॒ । वृ॒धे ॥

सायणभाष्यम्

हेअग्ने नोस्मभ्यंवार्यंवरणीयंधनंनुक्षिप्रंप्रयच्छ इद्धीतिपूरणौ यतः सूरयः स्तोतारः त्वत्तः सकाशादासा आस्येनस्तोत्रेणसचंत धनंलभन्ते किंच हेऊर्जोनपात् अन्नस्यनपातयिताः बलस्यपुत्रवा अभिष्टये अभीच्छते मह्यं अन्नंप्रयच्छेतिशेषः पाहि अस्मानापद्भ्योरक्ष स्वस्तये क्षेमाय पश्वादिलक्षणस्यधनस्यक्षेमार्थंशग्धि त्वां याचे व्यत्ययेनमध्यमः शक्तोभवेतिवा हे अग्ने उतापिच पृत्सु पृतनासु नोवृधे समृद्धये एधि भव ॥ ५ ॥

प्रातरग्निमितिपंचर्चचतुर्थंसूक्तं अत्रेयमनुक्रामणिका-प्रातर्मृक्तवाहाद्वितइतिविशेषणविशिष्टः आत्रेयोद्वितऋषिः पंक्त्यंतंहीति हिशब्दादस्यापिसूक्तस्यपंचमीपंक्तिः पंक्त्यंतपरिभाषया शिष्टाअनुष्टुभः उक्तोविनियोगः प्रातरनुवाकाश्विनशस्त्रयोः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः