मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् २२, ऋक् ४

संहिता

अग्ने॑ चिकि॒द्ध्य१॒॑स्य न॑ इ॒दं वचः॑ सहस्य ।
तं त्वा॑ सुशिप्र दम्पते॒ स्तोमै॑र्वर्ध॒न्त्यत्र॑यो गी॒र्भिः शु॑म्भ॒न्त्यत्र॑यः ॥

पदपाठः

अग्ने॑ । चि॒कि॒द्धि । अ॒स्य । नः॒ । इ॒दम् । वचः॑ । स॒ह॒स्य॒ ।
तम् । त्वा॒ । सु॒ऽशि॒प्र॒ । द॒म्ऽप॒ते॒ । स्तोमैः॑ । व॒र्ध॒न्ति॒ । अत्र॑यः । गीः॒ऽभिः । शु॒म्भ॒न्ति॒ । अत्र॑यः ॥

सायणभाष्यम्

हेअग्ने सहस्य सहसोबलस्यपुत्र नोस्मदीयं अस्येदंपरिचरणं इदंवचः स्तोत्रंच चिकिद्धि जानीहि हेसुशिप्र शोभने शिप्रेहनूनासिकेवायस्यासौसुशिप्रः त्स्यसंबोधनंसुशिप्र सुहनो दंपते गृहपते तं त्वां अत्रयोत्रिपुत्राः स्तोमैःस्तोत्रैः वर्धन्ति वर्धयन्ति अत्रयोगी र्भिःशुंभंत्यलंकुर्वन्ति ॥ ४ ॥

अग्नेसहन्तमितिचतुरृचंनवमंसूक्तं अत्रानुक्रमणिका-अग्नेद्युम्नोविश्वचर्षणिरिति । द्युम्नऋषिः चतुर्थीपंक्तिराद्यास्तिस्रोनुष्टुभः अग्निर्देवता प्रातरनुवाकाश्विनशस्त्रयोर्दशसूक्तान्तः पातितत्वादुक्तोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४