अ॒स्माक॑मि॒न्द्रेहि॑ नो॒ रथ॑मवा॒ पुरं॑ध्या ।
व॒यं श॑विष्ठ॒ वार्यं॑ दि॒वि श्रवो॑ दधीमहि दि॒वि स्तोमं॑ मनामहे ॥
अ॒स्माक॑म् । इ॒न्द्र॒ । आ । इ॒हि॒ । नः॒ । रथ॑म् । अ॒व॒ । पुर॑म्ऽध्या ।
व॒यम् । श॒वि॒ष्ठ॒ । वार्य॑म् । दि॒वि । श्रवः॑ । द॒धी॒म॒हि॒ । दि॒वि । स्तोम॑म् । म॒ना॒म॒हे॒ ॥
हेइन्द्रास्माकं अस्मदीयएवसन् एहि आगच्छ आगत्यच पुरंध्याशोभनबुद्भानोस्माकं रथमव रक्ष वयंच हेशविष्ठ अतिशयेनबलवन् त्वदनुग्रहाद्वार्थं वरणीयं श्रवोन्नं कीर्तिंवा दिवि द्योतमानेत्वयि दधीमहि स्थापयामः तथा दिवित्वयिस्तोमंस्तोत्रंमनामहे करवामहेइत्यर्थः ॥ ८ ॥
सआगमदितिषळृचंचतुर्थंसूक्तं आंगिरसःप्रभूवसुरृषिः तृतीयाजगती शिष्टाअनुक्तत्वान्त्रिष्टुभः इन्द्रोदेवता अनुक्रांतंच-सआगमत्षट्तृतीयाजगतीति । विनियोगोलैंगिकः ।