मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ३९, ऋक् ५

संहिता

अस्मा॒ इत्काव्यं॒ वच॑ उ॒क्थमिन्द्रा॑य॒ शंस्य॑म् ।
तस्मा॑ उ॒ ब्रह्म॑वाहसे॒ गिरो॑ वर्ध॒न्त्यत्र॑यो॒ गिरः॑ शुम्भ॒न्त्यत्र॑यः ॥

पदपाठः

अस्मै॑ । इत् । काव्य॑म् । वचः॑ । उ॒क्थम् । इन्द्रा॑य । शंस्य॑म् ।
तस्मै॑ । ऊं॒ इति॑ । ब्रह्म॑ऽवाहसे । गिरः॑ । व॒र्ध॒न्ति॒ । अत्र॑यः । गिरः॑ । शु॒म्भ॒न्ति॒ । अत्र॑यः ॥

सायणभाष्यम्

अस्माइत् अस्माएवेन्द्राय काव्यं कवेःस्तोतुःसंबन्धि यद्वा कुशब्दे शब्दनीयंवचोवाग्रूपं उक्थं शस्त्रं शंस्यं शंसनीयं यस्मादेवंतस्मात् तस्माउ तस्मैइन्द्रायैव ब्रह्मवाहसे परिवृढस्यस्तोत्रस्यवाहकाय गिरःस्तुतीरत्रयोत्रिगोत्रावर्धन्तिवर्धयन्ति अत्रयोगिरःशुंभन्ति दीपयन्ति पुनरुक्तिरादरार्था ॥ ५ ॥

आयाह्यद्रिरितिनवर्चमष्टमंसूक्तं अत्रेयमनुक्रमणिका-आयाहिनवत्र्युष्णिगाद्यंत्यानुष्टुम्मध्येचसासौरीतदादीतिहासस्तुतिकर्मत्वादत्रि- रेवदेवइति । कृत्स्नस्यऋषिश्चान्यस्मादितिपरिभाषयात्रिरृषिः आद्यास्तिस्रउष्णिहः पंचमीनवम्यावनुष्टुभौ शिष्टाश्चतस्रस्त्रिष्टुभः अत्रेः स्तूयमानत्वात् षष्ठ्याद्याअत्रिदेवताका अत्र्यार्षेयाश्चपंचमीसूर्यदेवत्या शिष्टाऎन्द्भ्यः । दशरात्रेतृतीयेहनिप्रउगशस्त्रेआद्यस्तृचः ऎन्द्रःपंचमः सूत्रितंच-आयाह्यद्रिभिःसुतंसजूर्विश्वेभिर्देवेभिरिति । महाव्रतेप्यौष्णिहतृचाशीतावयंतृचः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०