मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४०, ऋक् १

संहिता

आ या॒ह्यद्रि॑भिः सु॒तं सोमं॑ सोमपते पिब ।
वृष॑न्निन्द्र॒ वृष॑भिर्वृत्रहन्तम ॥

पदपाठः

आ । या॒हि॒ । अद्रि॑ऽभिः । सु॒तम् । सोम॑म् । सो॒म॒ऽप॒ते॒ । पि॒ब॒ ।
वृष॑न् । इ॒न्द्र॒ । वृष॑ऽभिः । वृ॒त्र॒ह॒न्ऽत॒म॒ ॥

सायणभाष्यम्

हेइन्द्र आयाहि अस्मद्यज्ञमागच्छ आगत्यच हेसोमपते सोमस्यस्वामिन्निन्द्र अद्रिभिर्ग्रावभिः सुतमभिषुतंसोमंपिब हेवृषन् फलस्यवर्षयितः वृत्रहन्तम अतिशयेनशत्रूणांहन्तृतम वृषभिर्वर्षकैर्मरुद्भिः सहायाहि पिबच ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११