मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५०, ऋक् ३

संहिता

अतो॑ न॒ आ नॄनति॑थी॒नत॒ः पत्नी॑र्दशस्यत ।
आ॒रे विश्वं॑ पथे॒ष्ठां द्वि॒षो यु॑योतु॒ यूयु॑विः ॥

पदपाठः

अतः॑ । नः॒ । आ । नॄन् । अति॑थीन् । अतः॑ । पत्नीः॑ । द॒श॒स्य॒त॒ ।
आ॒रे । विश्व॑म् । प॒थे॒ऽस्थाम् । द्वि॒षः । यु॒यो॒तु॒ । युयु॑विः ॥

सायणभाष्यम्

अतः अस्मिन्यज्ञेसार्वविभक्तिकस्तसिः नोस्माकमृत्विजां नॄन् नेतॄन् अतिथीन् तद्वत्पूज्यान् देवान् आदशस्यत सर्वतःपरिचरत अतोस्मिन्यज्ञे पत्नीर्देवानांपत्नीरपि आदशस्यतहविः प्रदानादिना यद्वा नोस्मभ्यं नॄन् पुत्रभृत्यादीन् अतिथीन् पत्नीश्च एतन्त्रयमत्रदशस्यत हेदेवाः प्रयच्छत आरे दूरे विश्वं सर्वं प्रथेष्ठां मार्गेवर्तमानं नैरिणं द्विषः अन्यानपि द्विषोद्वेष्टृन् युयोतु पृथक्करोतुदेवसंघःसवितावा युयुविः सर्वस्यामिश्रयिता पृथक्कर्ता ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः