मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५१, ऋक् १

संहिता

अग्ने॑ सु॒तस्य॑ पी॒तये॒ विश्वै॒रूमे॑भि॒रा ग॑हि ।
दे॒वेभि॑र्ह॒व्यदा॑तये ॥

पदपाठः

अग्ने॑ । सु॒तस्य॑ । पी॒तये॑ । विश्वैः॑ । ऊमे॑भिः । आ । ग॒हि॒ ।
दे॒वेभिः॑ । ह॒व्यऽदा॑तये ॥

सायणभाष्यम्

हेअग्ने त्वं सुतस्यपीतये सोमपानाय विश्वैरूमेभिः ऊमैः सर्वैरपिरक्षकैः देवेभिःदेवैरिन्द्रादिभिः सह हव्यदातये अस्माकंहविर्दानाय तद्दात्रेयजमानायवा आगहि आगच्छ ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः