मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५१, ऋक् ४

संहिता

अ॒यं सोम॑श्च॒मू सु॒तोऽम॑त्रे॒ परि॑ षिच्यते ।
प्रि॒य इन्द्रा॑य वा॒यवे॑ ॥

पदपाठः

अ॒यम्् । सोमः॑ । च॒मू इति॑ । सु॒तः । अम॑त्रे । परि॑ । सि॒च्य॒ते॒ ।
प्रि॒यः । इन्द्रा॑य । वा॒यवे॑ ॥

सायणभाष्यम्

अयंपुरतोवर्तमानः सोमः चमू चम्वोः अत्र्योः अभिषवणफलकयोः सुतः अभिषुतः सन् अमत्रे पात्रे परिषिच्यते पूर्यते सच इन्द्रायवा- यवेच प्रियः तं पातुं हेइन्द्रवायू आगच्छतमितिशेषः ॥ ४ ॥ वायवायाहीत्येषापृष्ठ्यस्यतृतीयेहनिप्रउगशस्त्रवायव्येतृचस्याद्या सूत्रितंच-वायवायाहिवीतयइत्येकावायोयाहिशिवादिव- इतिद्वेइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः