मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५१, ऋक् ११

संहिता

स्व॒स्ति नो॑ मिमीताम॒श्विना॒ भगः॑ स्व॒स्ति दे॒व्यदि॑तिरन॒र्वणः॑ ।
स्व॒स्ति पू॒षा असु॑रो दधातु नः स्व॒स्ति द्यावा॑पृथि॒वी सु॑चे॒तुना॑ ॥

पदपाठः

स्व॒स्ति । नः॒ । मि॒मी॒ता॒म् । अ॒श्विना॑ । भगः॑ । स्व॒स्ति । दे॒वी । अदि॑तिः । अ॒न॒र्वणः॑ ।
स्व॒स्ति । पू॒षा । असु॑रः । द॒धा॒तु॒ । नः॒ । स्व॒स्ति । द्यावा॑पृथि॒वी इति॑ । सु॒ऽचे॒तुना॑ ॥

सायणभाष्यम्

नोस्मभ्यं अश्विना अश्विनौ स्वस्ति अविनाशं क्षेमंमिमीतांकुरुतां भगश्चस्वस्तिक्षेमं मिमीतां तथा देव्यदितिश्च स्वस्तिमिमीतां अनर्वणः अप्रत्यृतः पूषा असुरः शत्रूणां निरसिता प्राणानां बलानांदातावा नःस्वस्तिदधातु नोस्मभ्यं द्यावापृथिवीद्यावापृथिव्यावपि सुचेतुना शोभनेनप्रज्ञानेन विशिष्टे स्वस्तिमिमीतां ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः