मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५१, ऋक् १४

संहिता

स्व॒स्ति मि॑त्रावरुणा स्व॒स्ति प॑थ्ये रेवति ।
स्व॒स्ति न॒ इन्द्र॑श्चा॒ग्निश्च॑ स्व॒स्ति नो॑ अदिते कृधि ॥

पदपाठः

स्व॒स्ति । मि॒त्रा॒व॒रु॒णा॒ । स्व॒स्ति । प॒थ्ये॒ । रे॒व॒ति॒ ।
स्व॒स्ति । नः॒ । इन्द्रः॑ । च॒ । अ॒ग्निः । च॒ । स्व॒स्ति । नः॒ । अ॒दि॒ते॒ । कृ॒धि॒ ॥

सायणभाष्यम्

हेमित्रावरुणा अहोरात्राभिमानिदेवौ स्वस्तिकुरुतं हेपथ्ये पथ्यास्वस्तिदेवि पन्थाअन्तरिक्षमार्गः तत्रहितामार्गः तत्रहितामार्गाभिमानि- नीदेवी हेतादृशि रेवति धनवति देविस्वस्ति कृधि इन्द्रश्चाग्निश्चप्रत्येकंनोस्मभ्यं स्वस्तिकृधि हेअदितेदेवि नः स्वस्तिकृधिकुरु ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः