मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५३, ऋक् ४

संहिता

ये अ॒ञ्जिषु॒ ये वाशी॑षु॒ स्वभा॑नवः स्र॒क्षु रु॒क्मेषु॑ खा॒दिषु॑ ।
श्रा॒या रथे॑षु॒ धन्व॑सु ॥

पदपाठः

ये । अ॒ञ्जिषु॑ । ये । वाशी॑षु । स्वऽभा॑नवः । स्र॒क्षु । रु॒क्मेषु॑ । खा॒दिषु॑ ।
श्रा॒याः । रथे॑षु । धन्व॑ऽसु ॥

सायणभाष्यम्

अनया मरुतांस्वरूपंनिरूपयति हेमरुतोयुष्माकं येप्रसिद्धाः स्वभानवः स्वदीप्तयोंजिषुआभरणेषु श्रायाःआश्रयभूताःसन्ति येच वाशीष्वा- युधेषु येच स्रक्षु माल्येषु येरुक्मेषु उरोभूषणेषु येचखादिषु हस्तपादस्थितकटकेषु हस्तेषुखादिश्चकृतिश्चपत्सुखादयइतिहश्रुतीभवतः । तान् सर्वान् स्तुमइतिशेषः यद्वा येस्वभानवः स्वायत्तदीप्तयोमरुतोंजिषु आभरणेषु निमित्तेषु श्रायाआश्रयाभविष्यामः येचवाशीषुनिमि- त्तेषु एवंसर्वत्रयोज्यं तादृग्विधानिमान् पश्यन् स्तुहीतिपूर्वत्रसंबन्धः तेषामेवेदंवाक्यं ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११