मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५८, ऋक् ५

संहिता

अ॒रा इ॒वेदच॑रमा॒ अहे॑व॒ प्रप्र॑ जायन्ते॒ अक॑वा॒ महो॑भिः ।
पृश्ने॑ः पु॒त्रा उ॑प॒मासो॒ रभि॑ष्ठा॒ः स्वया॑ म॒त्या म॒रुत॒ः सं मि॑मिक्षुः ॥

पदपाठः

अ॒राःऽइ॑व । इत् । अच॑रमाः । अहा॑ऽइव । प्रऽप्र॑ । जा॒य॒न्ते॒ । अक॑वाः । महः॑ऽभिः ।
पृश्नेः॑ । पु॒त्राः । उ॒प॒ऽमासः॑ । रभि॑ष्ठाः । स्वया॑ । म॒त्या । म॒रुतः॑ । सम् । मि॒मि॒क्षुः॒ ॥

सायणभाष्यम्

अराइवेत् रथशंकवइव अचरमाः अनिकृष्टाः सर्वसमाः सहैवोत्पन्नाश्चेत्यर्थः अहेव अहानीव दिवसायथासर्वेपिषष्टिघटिकात्मकाः तद्वत्सप्तसंख्योपेतसप्तगणरूपेणसमाइत्यर्थः अनेनदृष्टान्तद्वयेनवैसादृश्याभावःप्रतिपादितः एवमुक्तलक्षणाः महोभिस्तेजोभिः प्रप्रजायन्ते प्रकर्षेणप्रादुर्भवन्ति एकः प्रसमुपोदः पादपूरणइत्युपसर्गाभ्यासः सचपूरणः तेचाकवाः अनल्पाः यद्वा महोभिरित्यस्यविशेषणं पृश्नेर्माध्य- मिकायावाचोगोरूपायाअन्तरिक्षस्यवा पुत्रस्थानीयाः उपमासः प्रत्येकंसमानाः रभिष्ठाः प्रकृष्टवेगाः एवंमहानुभावामरुतः स्वयामत्या स्वकीययैवानुग्रहबुद्भ्या संमिमिक्षुः वृष्ट्यासम्यक् सिंचन्ति ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३