मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ७५, ऋक् २

संहिता

अ॒त्याया॑तमश्विना ति॒रो विश्वा॑ अ॒हं सना॑ ।
दस्रा॒ हिर॑ण्यवर्तनी॒ सुषु॑म्ना॒ सिन्धु॑वाहसा॒ माध्वी॒ मम॑ श्रुतं॒ हव॑म् ॥

पदपाठः

अ॒ति॒ऽआया॑तम् । अ॒श्वि॒ना॒ । ति॒रः । विश्वाः॑ । अ॒हम् । सना॑ ।
दस्रा॑ । हिर॑ण्यवर्तनी॒ इति॒ हिर॑ण्यऽवर्तनी । सुऽसु॑म्ना । सिन्धु॑ऽवाहसा । माध्वी॒ इति॑ । मम॑ । श्रु॒त॒म् । हव॑म् ॥

सायणभाष्यम्

हेअश्विना अत्यायातं सर्वान्यजमानानतिक्रम्यागच्छतं यथाअहमृषिर्विश्वाः सर्वाः अस्मद्विरोधिप्रजाः सना सदातिरस्करोमि अथवा अहं तिरः तिरःसतइतिप्राप्तस्येतिनिरुक्तम् । प्राप्ताः सर्वाः विश्वाः क्रियाः युष्मदीयाअनुतिष्ठेयमित्यर्थः सना सनातनौ दस्रा शत्रूणामुपक्ष- पयितारौ हिरण्यवर्तनी हिरण्यरथौ पुम्ना सुधनौ सिन्धुवाहसा नदीनांप्रवाहयितारौ वृष्टिप्रेरणेन तादृशौयुवां अत्यायातं ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५