मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ७५, ऋक् ७

संहिता

अश्वि॑ना॒वेह ग॑च्छतं॒ नास॑त्या॒ मा वि वे॑नतम् ।
ति॒रश्चि॑दर्य॒या परि॑ व॒र्तिर्या॑तमदाभ्या॒ माध्वी॒ मम॑ श्रुतं॒ हव॑म् ॥

पदपाठः

अश्वि॑नौ । आ । इ॒ह । ग॒च्छ॒त॒म् । नास॑त्या । मा । वि । वे॒न॒त॒म् ।
ति॒रः । चि॒त् । अ॒र्य॒ऽया । परि॑ । व॒र्तिः । या॒त॒म् । अ॒दा॒भ्या॒ । माध्वी॒ इति॑ । मम॑ । श्रु॒त॒म् । हव॑म् ॥

सायणभाष्यम्

हेअश्विना अश्विनौ इहास्मिन्यज्ञे आगच्छतं हेनासत्या माविवेनतं विगतकामौमाभवतं वेनतिःकान्तिकर्मा हेअदाभ्या अहिंस्यौपूज्यौ अर्यया अर्यौस्वामिनौयुवां सुपांसुलुगित्यादिना सुपोयाजादेशः तिरश्चित् अन्तर्हिताद्दरदेशादपि युवांवर्तिरस्मद्यज्ञगृहं परियातं आगछतं ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६