मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ७५, ऋक् ८

संहिता

अ॒स्मिन्य॒ज्ञे अ॑दाभ्या जरि॒तारं॑ शुभस्पती ।
अ॒व॒स्युम॑श्विना यु॒वं गृ॒णन्त॒मुप॑ भूषथो॒ माध्वी॒ मम॑ श्रुतं॒ हव॑म् ॥

पदपाठः

अ॒स्मिन् । य॒ज्ञे । अ॒दा॒भ्या॒ । ज॒रि॒तार॑म् । शु॒भः॒ । प॒ती॒ इति॑ ।
अ॒व॒स्युम् । अ॒श्वि॒ना॒ । यु॒वम् । गृ॒णन्त॑म् । उप॑ । भू॒ष॒थः॒ । माध्वी॒ इति॑ । मम॑ । श्रु॒त॒म् । हव॑म् ॥

सायणभाष्यम्

हेअदाभ्या अहिंस्यौ हेशुभस्पती उदकस्यस्वामिनौ अश्विना युवं युवां अस्मिन्यज्ञे जरितारं स्तोतारं अवस्युं गृणन्तंस्तुवन्तंमां उपभू- षतः उपप्राप्नुतम् ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६