मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ७५, ऋक् ९

संहिता

अभू॑दु॒षा रुश॑त्पशु॒राग्निर॑धाय्यृ॒त्वियः॑ ।
अयो॑जि वां वृषण्वसू॒ रथो॑ दस्रा॒वम॑र्त्यो॒ माध्वी॒ मम॑ श्रुतं॒ हव॑म् ॥

पदपाठः

अभू॑त् । उ॒षाः । रुश॑त्ऽपशुः । आ । अ॒ग्निः । अ॒धा॒यि॒ । ऋ॒त्वियः॑ ।
अयो॑जि । वा॒म् । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू । रथः॑ । द॒स्रौ॒ । अम॑र्त्यः । माध्वी॒ इति॑ । मम॑ । श्रु॒त॒म् । हव॑म् ॥

सायणभाष्यम्

उषाः व्युष्टिरभूत् अग्निश्च रुशत्पशुः दीप्तपशुमान् प्रकाशितहविरित्यर्थः अथवा पशवः किरणाः रुशद्रश्मिःसन् अधायि वेद्यामधीयत हेवृषण्वसू प्रदत्तधनौ हेदस्रौ वांयुवयोः अमर्त्यः अमरणधर्मा ध्रुवारेथोयोजि अश्वैर्युक्तोभवत्वित्यर्थः छन्दसिलुङ्लङ् लिटइतिअनेकेष्वर्थे- षुलुङ्भवति इहप्रार्थनायां माध्वीत्यादिगतं ॥ ९ ॥

आभात्यग्निरितिपंचर्चंचतुर्थंसूक्तं भौमस्यात्रेरार्षं त्रैष्टुभमाश्विनं अत्रानुक्रमणिका-आभातिपंचात्रिरिति । प्रवर्ग्येअभिष्टवार्थमिदंसूक्तं सूत्रितंच-आभात्यग्निर्ग्रावाणेवेति । प्रातरनुवाके आश्विनेक्रतौ त्रैष्टुभेछ्न्दसि आश्विनशस्त्रेच इदमादिकेद्वेसूक्ते सूत्र्यतेहि-आभात्यग्निरिति- सूक्तेइति । अप्तोर्यामेहोतुरतिरिक्तोक्थ्येइदंसूक्तं सूत्रितंच-आभात्यग्निःक्षेत्रस्यपतिनावयमितिपरिधानीयेति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६