मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ७८, ऋक् ६

संहिता

भी॒ताय॒ नाध॑मानाय॒ ऋष॑ये स॒प्तव॑ध्रये ।
मा॒याभि॑रश्विना यु॒वं वृ॒क्षं सं च॒ वि चा॑चथः ॥

पदपाठः

भी॒ताय॑ । नाध॑मानाय । ऋष॑ये । स॒प्तऽव॑ध्रये ।
मा॒याभिः॑ । अ॒श्वि॒ना॒ । यु॒वम् । वृ॒क्षम् । सम् । च॒ । वि । च॒ । अ॒च॒थः॒ ॥

सायणभाष्यम्

भीताय निर्गमाद्बिभ्युषे नाधमानाय विमोक्षंयाचमानाय सप्तवध्रयेऋषये हेअश्विना अश्विनौ युवं युवां मायाभिः वृक्षं वृक्षविकारांपे- टिकां संचाचथः ममनिर्गमार्थं संगच्छथः विचाचथः विभक्तंकुरुथः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०