मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ७९, ऋक् १

संहिता

म॒हे नो॑ अ॒द्य बो॑ध॒योषो॑ रा॒ये दि॒वित्म॑ती ।
यथा॑ चिन्नो॒ अबो॑धयः स॒त्यश्र॑वसि वा॒य्ये सुजा॑ते॒ अश्व॑सूनृते ॥

पदपाठः

म॒हे । नः॒ । अ॒द्य । बो॒ध॒य॒ । उषः॑ । रा॒ये । दि॒वित्म॑ती ।
यथा॑ । चि॒त् । नः॒ । अबो॑धयः । स॒त्यऽश्र॑वसि । वा॒य्ये । सुऽजा॑ते । अश्व॑ऽसूनृते ॥

सायणभाष्यम्

अद्यास्मिन्यागदिने हेउषः उषोदेवि दिवित्मती दीप्तिमती त्वंनोस्मान् महे महते राये धनप्राप्तये बोधय प्रज्ञापय प्रकाशयेत्यर्थः सतिप्रकाशे क्रतुद्वाराद्रव्यस्योपार्जयितुंशक्यत्वात् यथाचित् यथैवपूर्वंनोस्मानबोधयः अतोतेषुदिवसेषुयथाबोधितवती तद्वत् अद्यापीत्य- र्थः हेसुजाते शोभनप्रादुर्भूते अश्वसूनृते अश्वार्थाप्रियसत्यात्मिकास्तुतिर्वाग्यस्याः सा हेतादृशिदेवि वाय्ये वभ्यपुत्रे सत्यश्रवसिमयि अनुगृ- हाणेत्यर्थः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१