मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ७९, ऋक् ३

संहिता

सा नो॑ अ॒द्याभ॒रद्व॑सु॒र्व्यु॑च्छा दुहितर्दिवः ।
यो व्यौच्छ॒ः सही॑यसि स॒त्यश्र॑वसि वा॒य्ये सुजा॑ते॒ अश्व॑सूनृते ॥

पदपाठः

सा । नः॒ । अ॒द्य । आ॒भ॒रत्ऽव॑सुः । वि । उ॒च्छ॒ । दु॒हि॒तः॒ । दि॒वः॒ ।
यो इति॑ । वि । औच्छः॑ । सही॑यसि । स॒त्यऽश्र॑वसि । वा॒य्ये । सुऽजा॑ते । अश्व॑ऽसूनृते ॥

सायणभाष्यम्

हेदुहितर्दिवःउषः आभरद्वसुः आहृतधना सा प्रसिद्धात्वं नोस्माकं अद्यास्मिन् दिने व्युच्छ तमोविवासय हेसहीयसि यो या उकारोन- र्थकः यात्वं पूर्वं व्यौच्छः साद्यापीति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१