मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ७९, ऋक् ४

संहिता

अ॒भि ये त्वा॑ विभावरि॒ स्तोमै॑र्गृ॒णन्ति॒ वह्न॑यः ।
म॒घैर्म॑घोनि सु॒श्रियो॒ दाम॑न्वन्तः सुरा॒तय॒ः सुजा॑ते॒ अश्व॑सूनृते ॥

पदपाठः

अ॒भि । ये । त्वा॒ । वि॒भा॒ऽव॒रि॒ । स्तोमैः॑ । गृ॒णन्ति॑ । वह्न॑यः ।
म॒घैः । म॒घो॒नि॒ । सु॒ऽश्रियः॑ । दाम॑न्ऽवन्तः । सु॒ऽरा॒तयः॑ । सुऽजा॑ते । अश्व॑ऽसूनृते ॥

सायणभाष्यम्

हेविभावरि प्रकाशोपेते विभाशब्दाच्छन्दसीवनिपावितिवनिप् भातेर्वाकर्तरिवनिप् उषः त्वा त्वां अभिप्रति येवह्नयोवोढारऋ- त्विजः स्तोतारः स्तोमैः स्तोत्रैः गृणन्ति स्तुवन्ति तेस्तोतारोमघैः हेमघोनि धनैर्धनवति त्वदनुग्रहात् सुश्रियोभवन्ति सुष्ठुअर्थिभिराश्र- यणीयाभवन्ति दामन्वन्तोदानवन्तोभवन्ति सुरातयः रातिर्दानं सुदानाश्चभवन्ति ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१