मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ८६, ऋक् २

संहिता

या पृत॑नासु दु॒ष्टरा॒ या वाजे॑षु श्र॒वाय्या॑ ।
या पञ्च॑ चर्ष॒णीर॒भी॑न्द्रा॒ग्नी ता ह॑वामहे ॥

पदपाठः

या । पृत॑नासु । दु॒स्तरा॑ । या । वाजे॑षु । श्र॒वाय्या॑ ।
या । पञ्च॑ । च॒र्ष॒णीः । अ॒भि । इ॒न्द्रा॒ग्नी इति॑ । ता । ह॒वा॒म॒हे॒ ॥

सायणभाष्यम्

या याविन्द्राग्नी पृतनासु संग्रामेषु दुष्टरा दुष्टरौ अनभिभाव्यौ या यौच वाजेषु संग्रामेषु अन्नेषुवा श्रवाय्या श्रवाय्यौ स्तुत्यौ या यौ पंचचर्षणीः चर्षणयोमनुष्याः तानभिरक्षतइतिशेषः ता तौ महानुभावौहवामहे स्तुमः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२