मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ८६, ऋक् ३

संहिता

तयो॒रिदम॑व॒च्छव॑स्ति॒ग्मा दि॒द्युन्म॒घोनो॑ः ।
प्रति॒ द्रुणा॒ गभ॑स्त्यो॒र्गवां॑ वृत्र॒घ्न एष॑ते ॥

पदपाठः

तयोः॑ । इत् । अम॑ऽवत् । शवः॑ । ति॒ग्मा । दि॒द्युत् । म॒घोनोः॑ ।
प्रति॑ । द्रुणा॑ । गभ॑स्त्योः । गवा॑म् । वृ॒त्र॒ऽघ्ने । आ । ई॒ष॒ते॒ ॥

सायणभाष्यम्

अमवत् अभिभावुकं शवोबलं तयोरित् तयोरेव मघोनोर्मघवतोरन्नवतोर्धनवतोर्वा तयोर्दिद्युत् वज्रं तिग्मा तीक्ष्णं वर्तते गभस्त्योर्ह- स्तयोः एवंभूतौदेवौ गवामुदकानां पणिभिरपहृतानांवागवांलाभाय द्रुणा द्रुविकारेण गमनशीलेनवैकेनरथेन वृत्रघ्ने आवरकमेघहननाय तथाविधवृत्रासुरवधायवा प्रतिईषते प्रतिगच्छतः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२