मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ८६, ऋक् ४

संहिता

ता वा॒मेषे॒ रथा॑नामिन्द्रा॒ग्नी ह॑वामहे ।
पती॑ तु॒रस्य॒ राध॑सो वि॒द्वांसा॒ गिर्व॑णस्तमा ॥

पदपाठः

आ । वा॒म् । एषे॑ । रथा॑नाम् । इ॒न्द्रा॒ग्नी इति॑ । ह॒वा॒म॒हे॒ ।
पती॒ इति॑ । तु॒रस्य॑ । राध॑सः । वि॒द्वांसा॑ । गिर्व॑णःऽतमा ॥

सायणभाष्यम्

हेदेवौ ता तौ वक्ष्यमाणगुणौ वां युवां हवामहे स्तुमः किमर्थं रथानामेषेयुद्धे रथानांप्रेरणाय कीदृशौयुवां इन्द्राग्नीइंद्रमग्नींचपरस्परयु- ग्मभूतौ तुरस्य जंगमरूपस्य राधसोधनादिलक्षणस्य धनस्य पती स्वामिनौ विद्वांसा सर्वज्ञौ गिर्वणस्तमा गीर्भिर्वननीयतमौ ईदृशौयुवां हवामहे ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२