मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ८६, ऋक् ५

संहिता

ता वृ॒धन्ता॒वनु॒ द्यून्मर्ता॑य दे॒वाव॒दभा॑ ।
अर्ह॑न्ता चित्पु॒रो द॒धेंऽशे॑व दे॒वावर्व॑ते ॥

पदपाठः

ता । वृ॒धन्तौ॑ । अनु॑ । द्यून् । मर्ता॑य । दे॒वौ । अ॒दभा॑ ।
अर्ह॑न्ता । चि॒त् । पु॒रः । द॒धे॒ । अंशा॑ऽइव । दे॒वौ । अर्व॑ते ॥

सायणभाष्यम्

ता तौ अनुद्यून् प्रतिदिनं वृधन्तौ वर्धमानौ सर्वदाप्रवृद्धावित्यर्थः वर्धनेदृष्टान्तः मर्तेव मनुष्याविव तौयथाप्रतिदिनंवर्धेते देवौ द्योत- मानौ अदभा अहिंस्यौ अर्हंताचित् प्रकर्षेणपूज्यौ चिदितिपूजायां तादृशौमहानुभावौदेवावर्वतेशलाभाय पुरोदधे पुरस्कुर्वे अंशेव अंशोनामाद्वादशादित्यमध्यवर्तीदेवः सभगस्याप्युपलक्षकः अंशाविव आदित्याविवदीप्तावित्यर्थः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२