मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १४, ऋक् ६

संहिता

अच्छा॑ नो मित्रमहो देव दे॒वानग्ने॒ वोचः॑ सुम॒तिं रोद॑स्योः ।
वी॒हि स्व॒स्तिं सु॑क्षि॒तिं दि॒वो नॄन्द्वि॒षो अंहां॑सि दुरि॒ता त॑रेम॒ ता त॑रेम॒ तवाव॑सा तरेम ॥

पदपाठः

अच्छ॑ । नः॒ । मि॒त्र॒ऽम॒हः॒ । दे॒व॒ । दे॒वान् । अग्ने॑ । वोचः॑ । सु॒ऽम॒तिम् । रोद॑स्योः ।
वी॒हि । स्व॒स्तिम् । सु॒ऽक्षि॒तिम् । दि॒वः । नॄन् । द्वि॒षः । अंहां॑सि । दुः॒ऽइ॒ता । त॒रे॒म॒ । ता । त॒रे॒म॒ । तव॑ । अव॑सा । त॒रे॒म॒ ॥

सायणभाष्यम्

व्याख्यातेयं अक्षरार्थस्तु अनुकूलदीप्ते दानादिगुणयुक्ताग्ने द्यावापृथिव्योरभिगतरुचं अस्मदीयांसुष्टुतिं यष्टव्यान् देवान् प्रति वोचः प्र- ब्रूहि स्तुतेर्नेतॄनस्मांश्च सुनिवासं अविनाशंगमय वयंच त्वत्प्रसादात् द्वेष्टॄन् पापानि तत्फलानि दुर्गमनानिचातिक्रामेम व्यवहितानि ज- न्मान्तरकृतानिच तान्यतिक्रामेम त्वदीयेनरक्षणेन अत्यन्तमतिक्रामेमेति ॥ ६ ॥

इममूषुवइत्येकोनविंशत्यृचंपञ्चदशंसूक्तं आंगिरसस्यवीतहव्यस्यभरद्वाजस्यवार्षं आग्नेयं आदौनवजगत्यः तृतीयाषष्ठ्यौतुशक्वर्यतिश- क्वर्यौ पञ्चदशीशक्वरी सप्तदश्यनुष्टुप् अष्टादशीबृहती दशम्याद्याःपञ्च षोळश्येकोनविंशीचेतिसप्तत्रिष्टुभः तथाचानुक्रान्तं—इममूष्वेकोना- वीतहव्यऋषिर्वा जागतंप्रग्दशम्याः तृतीयापञ्चदश्यौशक्वर्यौषष्ठ्यतिशक्वर्यनुष्टुब्बृहत्याउपान्त्येइति प्रातरनुवाकेआग्नेयेक्रतौआश्विनशस्त्रे- चआदितोनवर्चः सूत्रितंच—इममूषुवोअतिथिमुषर्बुधमिति । दशरात्रेपञ्चमेहनिनवर्चमाज्यशस्त्रंच सूत्रितंच—इममूषुवोअतिथिमुषर्बुध- मितिनवाज्यमिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६