मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १५, ऋक् ३

संहिता

स त्वं दक्ष॑स्यावृ॒को वृ॒धो भू॑र॒र्यः पर॒स्यान्त॑रस्य॒ तरु॑षः ।
रा॒यः सू॑नो सहसो॒ मर्त्ये॒ष्वा छ॒र्दिर्य॑च्छ वी॒तह॑व्याय स॒प्रथो॑ भ॒रद्वा॑जाय स॒प्रथः॑ ॥

पदपाठः

सः । त्वम् । दक्ष॑स्य । अ॒वृ॒कः । वृ॒धः । भूः॒ । अ॒र्यः । पर॑स्य । अन्त॑रस्य । तरु॑षः ।
रा॒यः । सू॒नो॒ इति॑ । स॒ह॒सः॒ । मर्त्ये॑षु । आ । छ॒र्दिः । य॒च्छ॒ । वी॒तऽह॑व्याय । स॒ऽप्रथः॑ । भ॒रत्ऽवा॑जाय । स॒ऽप्रथः॑ ॥

सायणभाष्यम्

हेअग्ने सतादृशः अवृकोबाधकरहितस्त्वं दक्षस्यानुष्ठानसमर्थस्य वृधोवर्धयिता भूः भवसि तथा परस्य विप्रकृष्टस्य अर्यः अरेः शत्रोः अन्तरस्यान्तिकतरस्यसन्निकृष्टस्यशत्रोः तरुषः तरिताभवसि अतःकारणात् हेसहसःसूनो सप्रथः सर्वतःपृथुस्त्वं मर्त्येषु मनुष्येषुमध्ये भरद्वाजायसंभृतहविर्लक्षणान्नाय वीतहव्याय वीतं गमितंहव्यंहविर्येनतादृशाय भरद्वाजायेतिवायोज्यं रायोधनानि छर्दिर्गृहमायच्छ प्रयच्छ सप्रथइतिपुनरुक्तिरादरार्था ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७