मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १५, ऋक् १५

संहिता

अ॒भि प्रयां॑सि॒ सुधि॑तानि॒ हि ख्यो नि त्वा॑ दधीत॒ रोद॑सी॒ यज॑ध्यै ।
अवा॑ नो मघव॒न्वाज॑साता॒वग्ने॒ विश्वा॑नि दुरि॒ता त॑रेम॒ ता त॑रेम॒ तवाव॑सा तरेम ॥

पदपाठः

अ॒भि । प्रयां॑सि । सुऽधि॑तानि । हि । ख्यः । नि । त्वा॒ । द॒धी॒त॒ । रोद॑सी॒ इति॑ । यज॑ध्यै ।
अव॑ । नः॒ । म॒घ॒ऽव॒न् । वाज॑ऽसातौ । अग्ने॑ । विश्वा॑नि । दुः॒ऽइ॒ता । त॒रे॒म॒ । ता । त॒रे॒म॒ । तव॑ । अव॑सा । त॒रे॒म॒ ॥

सायणभाष्यम्

हेअग्ने सुधितानि सुनिहितानि वेद्यामासादितानि प्रयांस्यन्नानि हविर्लक्षाणान्यभिख्यः अभिपश्यसि हिपूरकः तादृशंत्वां रोदसी द्यावापृथिव्यौ एतदुपलक्षितान् सर्वान् देवान् यजध्यै यष्टुंनिदधीत अयंयजमानोनिहितवान् हेमघवन्नग्ने नोस्मान्वाजसातौ संग्रामे अन्नस्यसंभजनेवा निमित्तभूते अव रक्ष वयंच विश्वानि सर्वाणि दुरिता दुरितानि दुःखानि तरेमातिक्रमेम अन्यद्गतम् ॥ १५ ॥ अग्निप्रणयनेअग्नेविश्वेभिरित्येषानुवक्तव्या सूत्रितंच—अग्नेविश्वेभिःस्वनीकदेवैरित्यर्धर्चआरमेदिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९