मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १६, ऋक् २६

संहिता

क्रत्वा॒ दा अ॑स्तु॒ श्रेष्ठो॒ऽद्य त्वा॑ व॒न्वन्त्सु॒रेक्णा॑ः ।
मर्त॑ आनाश सुवृ॒क्तिम् ॥

पदपाठः

क्रत्वा॑ । दाः । अ॒स्तु॒ । श्रेष्ठः॑ । अ॒द्य । त्वा॒ । व॒न्वन् । सु॒ऽरेक्णाः॑ ।
मर्तः॑ । आ॒ना॒श॒ । सु॒ऽवृ॒क्तिम् ॥

सायणभाष्यम्

हेअग्ने अद्येदानीं क्रत्वा कर्मणा परिचरणात्मना त्वा त्वां वन्वन् संभजन् दाः हविंषि दातायजमानः श्रेष्ठोतिशयेनप्रशस्योस्तु सुरेक्णाः शोभनधनश्चास्तु तथा समर्तोमनुष्यः सुवृक्तिं त्वद्विषयां सुष्टुतिंच आनाश व्याप्नोतु तव सर्वदास्तोताभवत्वित्यर्थः ॥ २६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६