मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४३, ऋक् १

संहिता

यस्य॒ त्यच्छम्ब॑रं॒ मदे॒ दिवो॑दासाय र॒न्धयः॑ ।
अ॒यं स सोम॑ इन्द्र ते सु॒तः पिब॑ ॥

पदपाठः

यस्य॑ । त्यत् । शम्ब॑रम् । मदे॑ । दिवः॑ऽदासाय । र॒न्धयः॑ ।
अ॒यम् । सः । सोमः॑ । इ॒न्द्र॒ । ते॒ । सु॒तः । पिब॑ ॥

सायणभाष्यम्

हेइन्द्र यस्यसोमस्यमदेपानेनजनितेहर्षेसति शंबरमसुरं दिवोदासायराज्ञेरंधयः अहिंसीः यद्वा वशीकृतवानसि रध्यतिर्वशगमनइति- यास्कः । त्यदितिक्रियाविशेषणं त्यत्तत्प्रसिद्धं यथा भवतितथाअरन्धयइत्यर्थः हेइन्द्र सोयंसोमस्तेत्वदर्थंसुतोभिषुतः अतस्तंपिब ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५