मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४३, ऋक् २

संहिता

यस्य॑ तीव्र॒सुतं॒ मदं॒ मध्य॒मन्तं॑ च॒ रक्ष॑से ।
अ॒यं स सोम॑ इन्द्र ते सु॒तः पिब॑ ॥

पदपाठः

यस्य॑ । ती॒व्र॒ऽसुत॑म् । मद॑म् । मध्य॑म् । अन्त॑म् । च॒ । रक्ष॑से ।
अ॒यम् । सः । सोमः॑ । इ॒न्द्र॒ । ते॒ । सु॒तः । पिब॑ ॥

सायणभाष्यम्

हेइन्द्र त्वंयस्यसोमस्यअवयवभूतंतीक्ष्णंसुतमभिषवोयस्यसतीव्रसुतः प्रातःसवनिकः तंमदंमदकरंसोमरसं मध्यं मध्यंदिनसवनगतं अंतं तृतीयसवनगतंचसोमरसं रक्षसे रक्षसि सोयंसोमस्त्वदर्थमभिषुतस्तंपिबेति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५