अप॒ त्यं वृ॑जि॒नं रि॒पुं स्ते॒नम॑ग्ने दुरा॒ध्य॑म् ।
द॒वि॒ष्ठम॑स्य सत्पते कृ॒धी सु॒गम् ॥
अप॑ । त्यम् । वृ॒जि॒नम् । रि॒पुम् । स्ते॒नम् । अ॒ग्ने॒ । दुः॒ऽआ॒ध्य॑म् ।
द॒वि॒ष्ठम् । अ॒स्य॒ । स॒त्ऽप॒ते॒ । कृ॒धि । सु॒ऽगम् ॥
हेअग्ने त्वंत्यंतंप्रसिद्धंवृजिनंकुटिलंरिपुंपापकारिणं दुराध्यं दुःखस्याध्यातारंदुष्टाभिप्रायं एवंभूतंस्तेनंहिंसकंदविष्ठंदूरतमं अपास्य अप- क्षिप असुक्षेपणइतिधातुः हेसत्पते सतांपालयितरग्ने अस्माकंसुगंशोभनेनगंतव्यंसुखंकृधि कुरु अत्रसर्वदेवात्मकस्याग्नेः स्तवनाद्वैश्वदेवत्वं ॥ १३ ॥