मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५२, ऋक् १६

संहिता

अग्नी॑पर्जन्या॒वव॑तं॒ धियं॑ मे॒ऽस्मिन्हवे॑ सुहवा सुष्टु॒तिं नः॑ ।
इळा॑म॒न्यो ज॒नय॒द्गर्भ॑म॒न्यः प्र॒जाव॑ती॒रिष॒ आ ध॑त्तम॒स्मे ॥

पदपाठः

अग्नी॑पर्जन्यौ । अव॑तम् । धिय॑म् । मे॒ । अ॒स्मिन् । हवे॑ । सु॒ऽह॒वा॒ । सु॒ऽस्तु॒तिम् । नः॒ ।
इळा॑म् । अ॒न्यः । ज॒नय॑त् । गर्भ॑म् । अ॒न्यः । प्र॒जाऽव॑तीः । इषः॑ । आ । ध॒त्त॒म् । अ॒स्मे इति॑ ॥

सायणभाष्यम्

हेअग्नीपर्जन्यौ मेमदीयंधियंकर्मयज्ञलक्षणं अवतं गच्छतं रक्षतंवा हेसुहवासुखेनह्वातुं शक्यौ अस्मिन् हवेयज्ञेनोस्मदीयांसुष्टुतिंशो- भनांस्तुतिंचरक्षतं यद्वाअनुवृत्तोअवतिःश्रवणार्थः अवतं श्रृणुतं युवयोर्मध्येअन्यः पर्जन्यः इळामन्नंजनयज्जनयति वृष्ट्याह्योषधितनस्पत- योजायन्ते तेभ्यश्चन्नंजायते अन्योग्निर्गर्भंजनयति पुरुषेणभुक्तमन्नंजाठरेणाग्निनापक्वंसत् रेतोरूपेणपरिणमते तदेवयोषित्सुगर्भोभवति अतोयुवांप्रजावतीः प्रजाभिर्युक्ताः इषोम्न्नानि अस्मे अस्मासुआधत्तं अवस्थापयतं ॥ १६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६