मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५७, ऋक् ३

संहिता

अ॒जा अ॒न्यस्य॒ वह्न॑यो॒ हरी॑ अ॒न्यस्य॒ सम्भृ॑ता ।
ताभ्यां॑ वृ॒त्राणि॑ जिघ्नते ॥

पदपाठः

अ॒जाः । अ॒न्यस्य॑ । वह्न॑यः । हरी॒ इति॑ । अ॒न्यस्य॑ । सम्ऽभृ॑ता ।
ताभ्या॑म् । वृ॒त्राणि॑ । जि॒घ्न॒ते॒ ॥

सायणभाष्यम्

अनयोरिन्द्रापूष्णोः अन्यस्यएकस्यपूष्णः अजाः छागाः वह्नयोवाहकाअश्वाः अन्यस्यापरस्येन्दस्यसंभृतासंभृतौसम्यक्पुष्टौ हरीएत- त्संज्ञावश्वौ वाहकौसचेन्द्रः ताभ्यांवृत्राणिशत्रून् जिघ्न ते हन्ति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३