मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५९, ऋक् १

संहिता

प्र नु वो॑चा सु॒तेषु॑ वां वी॒र्या॒३॒॑ यानि॑ च॒क्रथु॑ः ।
ह॒तासो॑ वां पि॒तरो॑ दे॒वश॑त्रव॒ इन्द्रा॑ग्नी॒ जीव॑थो यु॒वम् ॥

पदपाठः

प्र । नु । वो॒च॒ । सु॒तेषु॑ । वा॒म् । वी॒र्या॑ । यानि॑ । च॒क्रथुः॑ ।
ह॒तासः॑ । वा॒म् । पि॒तरः॑ । दे॒वऽश॑त्रवः । इन्द्रा॑ग्नी॒ इति॑ । जीव॑थः । यु॒वम् ॥

सायणभाष्यम्

हेइन्द्राग्नी यानिवीर्याविर्याणिवीरकर्माणिचक्रथुः कृतवन्तौ युवांसुतेषुअभिषुतेषुसोमेषु अस्मद्यज्ञे वांयुवयोस्तानिवीर्याणि नुक्षिप्रंप्र- वोच प्रवोचंब्रवीमि । तदेववीर्यंदर्शयतिहेइन्द्राग्नी देवशत्रवः देवाः शत्रवःशातयितारोयेषांतादृशाअसुराः पितरःहिंसकाःपीयतिर्हिसा- कर्मा तस्यैतद्रूपं ईदृशाअसुराः वांयुवाभ्यांहतासोहताआसन् युवंयुवांतु जीवथः जीवनवन्तोभवथः असुरैर्नबाधितावितियावत् ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५