मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५९, ऋक् २

संहिता

बळि॒त्था म॑हि॒मा वा॒मिन्द्रा॑ग्नी॒ पनि॑ष्ठ॒ आ ।
स॒मा॒नो वां॑ जनि॒ता भ्रात॑रा यु॒वं य॒मावि॒हेह॑मातरा ॥

पदपाठः

बट् । इ॒त्था । म॒हि॒मा । वा॒म् । इन्द्रा॑ग्नी॒ इति॑ । पनि॑ष्ठः । आ ।
स॒मा॒नः । वा॒म् । ज॒नि॒ता । भ्रात॑रा । यु॒वम् । य॒मौ । इ॒हेह॑ऽमातरा ॥

सायणभाष्यम्

हेइन्द्राग्नी वांयुवयोःमहिमामहत्त्वं इत्थाइत्थंअनेनप्रकारेण बट्सत्यं युष्मद्विषयंयज्जन्म महत्वंप्रतिपाद्यते तत्सर्वंयथार्थमित्यर्थः पनिष्ठःआपनिष्ठः स्तुत्यतमश्चप्रजापतिः समानः एकएव वांयुवयोर्जनिताजनयिता अतोयुवंयुवांभ्रातरौस्थः अपिच यमौयमलौसहोत्पन्नौ इहेहमातराइहचेहचसर्वत्रमाताययोस्तादृशौस्थः अदितिर्ह्यनयोर्मातासैवविस्तीर्णाभूमिरितिइहेहमातरावितिस्तूयते ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५