मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५९, ऋक् ३

संहिता

ओ॒कि॒वांसा॑ सु॒ते सचाँ॒ अश्वा॒ सप्ती॑ इ॒वाद॑ने ।
इन्द्रा॒ न्व१॒॑ग्नी अव॑से॒ह व॒ज्रिणा॑ व॒यं दे॒वा ह॑वामहे ॥

पदपाठः

ओ॒कि॒ऽवांसा॑ । सु॒ते । सचा॑ । अश्वा॑ । सप्ती॑ इ॒वेति॒ सप्ती॑ऽइव । आद॑ने ।
इन्द्रा॑ । नु । अ॒ग्नी इति॑ । अव॑सा । इ॒ह । व॒ज्रिणा॑ । व॒यम् । दे॒वा । ह॒वा॒म॒हे॒ ॥

सायणभाष्यम्

हेइन्द्राग्नी सुतेअभिषुतेसोमेयुवांसचासहओकिवांसाओकिवांसौसमवेतौसंगतौभवतं उच समवायाइत्यस्यैतद्रूपं तत्रदृष्टान्तः— आदनेभक्षणीयेघासेसप्तीइवाश्वा सर्पणशीलावश्वाविव नुअद्यवयंतादृशाविन्द्राइन्द्रौ अग्नीइन्द्राग्नी इहास्मिन्यज्ञेअवसारक्षणेनहेतुनाहवा- महे आह्वयामहे । इतरेतरयोगात् इन्द्रशब्देअग्निशब्देचद्विवचनं कीदृशाविन्द्राग्नी वज्रिणावज्रिणौ आयुधोपेतौ देवादानादिगुणयुक्तौ ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५