मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५९, ऋक् ५

संहिता

इन्द्रा॑ग्नी॒ को अ॒स्य वां॒ देवौ॒ मर्त॑श्चिकेतति ।
विषू॑चो॒ अश्वा॑न्युयुजा॒न ई॑यत॒ एकः॑ समा॒न आ रथे॑ ॥

पदपाठः

इन्द्रा॑ग्नी॒ इति॑ । कः । अ॒स्य । वा॒म् । देवौ॑ । मर्तः॑ । चि॒के॒त॒ति॒ ।
विषू॑चः । अश्वा॑न् । यु॒यु॒जा॒नः । ई॒य॒ते॒ । एकः॑ । स॒मा॒ने । आ । रथे॑ ॥

सायणभाष्यम्

हेदेवौ द्योतमानाविन्द्राग्नी वांयुवयोःअस्यइदंकर्मकोमर्तोमनुष्यः चिकेतति जानीयात् नकोपीत्यर्थः किंतत्कर्म विषूचः नानाअंचतो- गच्छतोअश्वान्त्समानेउभयार्थेएकस्मिन् रथेयुवयोरेकइन्द्रः सूर्यात्मनावर्तमानः युयुजानः तादृशानश्वान् योजयन् आईयते सर्वंजगदभि- गच्छति । यद्वाविषूचोनानारूपान् अश्वान् व्यापकान् रश्मीन् समानेएकरूपेरथेसंवत्सरात्मकेयुयुजानोयोजयन् युवयोरेकः सूर्यात्मा- इन्द्रः आईयतेआगच्छति । एतद्युवयोः कर्मकोयथावज्जानीयादित्यर्थः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५