मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५९, ऋक् ६

संहिता

इन्द्रा॑ग्नी अ॒पादि॒यं पूर्वागा॑त्प॒द्वती॑भ्यः ।
हि॒त्वी शिरो॑ जि॒ह्वया॒ वाव॑द॒च्चर॑त्त्रिं॒शत्प॒दा न्य॑क्रमीत् ॥

पदपाठः

इन्द्रा॑ग्नी॒ इति॑ । अ॒पात् । इ॒यम् । पूर्वा॑ । आ । अ॒गा॒त् । प॒त्ऽवती॑भ्यः ।
हि॒त्वी । शिरः॑ । जि॒ह्वया॑ । वाव॑दत् । चर॑त् । त्रिं॒शत् । प॒दा । नि । अ॒क्र॒मी॒त् ॥

सायणभाष्यम्

हेइन्द्राग्नी अपात् पादरहिताइयमुषाः पद्वतीभ्यः पादयुक्ताभ्यः सुप्ताभ्यः प्रजाभ्यः पूर्वाप्रथमाभाविनीसती आगात् आगच्छति । तथाप्राणिनांशिरोहित्वीप्रेरयित्री यद्वाशिरोहित्वात्यत्त्कास्वयमशिरस्कासती जिह्वयाप्राणिस्थयातदीयेनवागिन्द्रियेणवावदत् भृशं- शब्दंकुर्वन्तीचरत् एवंचरन्तीउषात्रिंशत्पदानिअवयवभूतान् त्रिंशन्मुहूर्तान् न्यक्रमीत् एकेनदिवसेनातिक्रामति एतच्चयुवयोः कर्मतत्- कोजानीयादितिपूर्वत्रान्वयः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६