मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५९, ऋक् ७

संहिता

इन्द्रा॑ग्नी॒ आ हि त॑न्व॒ते नरो॒ धन्वा॑नि बा॒ह्वोः ।
मा नो॑ अ॒स्मिन्म॑हाध॒ने परा॑ वर्क्तं॒ गवि॑ष्टिषु ॥

पदपाठः

इन्द्रा॑ग्नी॒ इति॑ । आ । हि । त॒न्व॒ते । नरः॑ । धन्वा॑नि । बा॒ह्वोः ।
मा । नः॒ । अ॒स्मिन् । म॒हा॒ऽध॒ने । परा॑ । व॒र्क्त॒म् । गोऽइ॑ष्टिषु ॥

सायणभाष्यम्

हेइन्द्राग्नी नरोयोद्धारोमनुष्याः बाह्वोर्हस्तयोः धन्वानिधनूंषिअतन्वतेहि आततज्यानिकुर्वतेहि । युवांचास्मिन् महाधनेजेतव्येनम- हाधनेनोपेतेसंग्रामे गविष्टिषुगवामन्वेषणेषुनोस्मान्मापरावर्क्तं मापरित्यजतं ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६