मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५९, ऋक् ८

संहिता

इन्द्रा॑ग्नी॒ तप॑न्ति मा॒घा अ॒र्यो अरा॑तयः ।
अप॒ द्वेषां॒स्या कृ॑तं युयु॒तं सूर्या॒दधि॑ ॥

पदपाठः

इन्द्रा॑ग्नी॒ इति॑ । तप॑न्ति । मा॒ । अ॒घाः । अ॒र्यः । अरा॑तयः ।
अप॑ । द्वेषां॑सि । आ । कृ॒त॒म् । यु॒यु॒तम् । सूर्या॑त् । अधि॑ ॥

सायणभाष्यम्

हेइन्द्राग्नी अघाआहंत्र्यः अर्यः अभिगंत्र्यः अरतयःशत्रुसेनामातपन्तिमांबाधन्ते ताअपाकृतंअपाकुरुतम् । तथाद्वेषांसिद्वेष्टृन् शत्रून् सूर्या- दधि अधिः पंचम्यर्थानुवादकः सूर्यदर्शनात् युयुतंपृथक्कुरुतंचयथातेसूर्यंनपश्यन्तितथाकुरुतं मारयतमित्यर्थः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६