मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५९, ऋक् ९

संहिता

इन्द्रा॑ग्नी यु॒वोरपि॒ वसु॑ दि॒व्यानि॒ पार्थि॑वा ।
आ न॑ इ॒ह प्र य॑च्छतं र॒यिं वि॒श्वायु॑पोषसम् ॥

पदपाठः

इन्द्रा॑ग्नी॒ इति॑ । यु॒वोः । अपि॑ । वसु॑ । दि॒व्यानि॑ । पार्थि॑वा ।
आ । नः॒ । इ॒ह । प्र । य॒च्छ॒त॒म् । र॒यिम् । वि॒श्वायु॑ऽपोषसम् ॥

सायणभाष्यम्

हेइन्द्राग्नी युवोर्युवयोः दिव्यानिदिविभवानि पार्थिवापृथिव्यांभवानि लोक्द्वयसंबन्धीनि वसुवसूनि अपिहितानियुवयोरेववर्तन्ते अतः कारणात् इहास्मिन्यज्ञेनोस्मभ्यंरयिंधनंआअभिप्रयच्छतम् । कीदृशंरयिं विश्वायुपोषसं आयवइतिमनुष्यनाम सर्वेषांमनुष्याणां- पोषणायपर्याप्तं यद्वास र्वस्यायुषः पोषणेशक्तं छान्दसोवर्णलोपः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६