मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६०, ऋक् १

संहिता

श्नथ॑द्वृ॒त्रमु॒त स॑नोति॒ वाज॒मिन्द्रा॒ यो अ॒ग्नी सहु॑री सप॒र्यात् ।
इ॒र॒ज्यन्ता॑ वस॒व्य॑स्य॒ भूरे॒ः सह॑स्तमा॒ सह॑सा वाज॒यन्ता॑ ॥

पदपाठः

श्नथ॑त् । वृ॒त्रम् । उ॒त । स॒नो॒ति॒ । वाज॑म् । इन्द्रा॑ । यः । अ॒ग्नी इति॑ । सहु॑री॒ इति॑ । स॒प॒र्यात् ।
इ॒र॒ज्यन्ता॑ । व॒स॒व्य॑स्य । भूरेः॑ । सहः॑ऽतमा॑ । सह॑सा । वा॒ज॒ऽयन्ता॑ ॥

सायणभाष्यम्

सपुरुषः वृत्रमावरकंसत्रुंश्नथत् हिनस्ति उतापिच वाजमन्नंबलंवासनोति लभते यःपुरुषः सहुरीशत्रूणामभिभविताराविन्द्राग्नीसपयात् परिचरेत् । इतरेतरयोगादुभयत्रपूर्ववद्विवचनं कीदृशाविन्द्राग्नी भूरेः प्रभूतस्यवसव्यस्य वसुसमूहस्य यद्वास्वार्थिकोयत् धनस्यइरज्यन्ता ईशानौस्वामिनौ इरज्यतिरैश्वर्यकर्मा सहसाबलेनसहस्तमाअतिशयेनाभिभवितारौ शत्रूणांवाजयन्तावाजं हविर्लक्षणमन्नंआत्मनइच्छन्तौ यद्वावाजंस्तोतृभ्योदातव्यमन्नंकामयमानौ ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७