मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६०, ऋक् २

संहिता

ता यो॑धिष्टम॒भि गा इ॑न्द्र नू॒नम॒पः स्व॑रु॒षसो॑ अग्न ऊ॒ळ्हाः ।
दिश॒ः स्व॑रु॒षस॑ इन्द्र चि॒त्रा अ॒पो गा अ॑ग्ने युवसे नि॒युत्वा॑न् ॥

पदपाठः

ता । यो॒धि॒ष्ट॒म् । अ॒भि । गाः । इ॒न्द्र॒ । नू॒नम् । अ॒पः । स्वः॑ । उ॒षसः॑ । अ॒ग्ने॒ । ऊ॒ळ्हाः ।
दिशः॑ । स्वः॑ । उ॒षसः॑ । इ॒न्द्र॒ । चि॒त्राः । अ॒पः । गाः । अ॒ग्ने॒ । यु॒व॒से॒ । नि॒युत्वा॑न् ॥

सायणभाष्यम्

हेइन्द्र हेअग्ने ता तौ युवांगाःआपः उदकानिस्वः सूर्यंउषसःउषःकालान् ऊह्ळाःपणिभिरपहृताः एतान् गवादीनभिलक्ष्ययोधिष्टं तैरसु- रैः युद्धंकृतवन्तौ नूनमितिपादपूरणार्थः हेइन्द्र त्वंदिशःप्राच्याद्याःस्वःसूर्यंउषसश्चचित्राश्चायनीयाअपउदकानिच गाश्च पणिभिरपहृताने- तान् युवसे अनेनलोकेनायोजयः यद्वाअसुरैरावृतान् दिगादीन् असुरवधेनावरणमपनीय पृथक्कृतवानसीत्यर्थः हेअग्ने नियुत्वान् नियुद्भि- रश्वैर्युक्तः सन् त्वमप्येवमकार्षीरित्यर्थः ॥ २ ॥ ऎन्द्राग्नस्यपशोर्वपायाआवृत्रहणेत्यनुवाक्या सूत्रितंच—आवृत्रहणावृत्रहभिः शुष्मैराभरतं शिक्षतंवज्रबाहूइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७