मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६०, ऋक् ३

संहिता

आ वृ॑त्रहणा वृत्र॒हभि॒ः शुष्मै॒रिन्द्र॑ या॒तं नमो॑भिरग्ने अ॒र्वाक् ।
यु॒वं राधो॑भि॒रक॑वेभिरि॒न्द्राग्ने॑ अ॒स्मे भ॑वतमुत्त॒मेभि॑ः ॥

पदपाठः

आ । वृ॒त्र॒ऽह॒ना॒ । वृ॒त्र॒हऽभिः॑ । शुष्मैः॑ । इन्द्र॑ । या॒तम् । नमः॑ऽभिः । अ॒ग्ने॒ । अ॒र्वाक् ।
यु॒वम् । राधः॑ऽभिः । अक॑वेभिः । इ॒न्द्र॒ । अग्ने॑ । अ॒स्मे इति॑ । भ॒व॒त॒म् । उ॒त्ऽत॒मेभिः॑ ॥

सायणभाष्यम्

हेवृत्रहणा वृत्रस्यासुरस्यहन्तारौ हेइन्द्र हेअग्ने वृत्रहभिः वृत्रस्यहन्तृभिःवृत्रहनननिमित्तैः शुष्मैर्बलैः नमोभिः अस्मभ्यंदातव्यैरन्नैश्च सार्धं अर्वाक् अस्मदभिमुखंआयातमागच्छतम् । हेइन्द्र हेअग्ने युवंयुवांअकवेभिः अकुत्सितैर्महद्भिः उत्तमेभिः उत्कृष्टतमैः राधोभिः धनैः सहअस्मेअस्मासुभवतमाविर्भवतं ॥ ३ ॥ चातुर्विंशिकेहनिप्रातः सवनेच्छावाकशस्त्रेताहुवेइतिषळहः स्तोत्रियस्तृचः सूत्रितंच—ताहुवेययोरिदमियंवामस्यमन्मनइति । पृष्ठ्याभिप्लवषडहयोः स्तोमवृद्धौताहुवइत्याद्यानवर्चआवा पार्थाः सूत्रितंच—ताहुवेययोरिदमितिनवेयंवामस्यमन्मनइत्येकादशेति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७